तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नो॑ऽश॒त्र्व१॒॑र्यः सम॑जाति॒ वेदः॑ ।
इती॒मम॒ग्निम॒मृता॑ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥
तु॒वि॒ऽग्रीवः॑ । वृ॒ष॒भः । व॒वृ॒धा॒नः । अ॒श॒त्रु । अ॒र्यः । सम् । अ॒जा॒ति॒ । वेदः॑ ।
इति॑ । इ॒मम् । अ॒ग्निम् । अ॒मृताः॑ । अ॒वो॒च॒न् । ब॒र्हिष्म॑ते । मन॑वे । शर्म॑ । यं॒स॒त् । ह॒विष्म॑ते । मन॑वे । शर्म॑ । यं॒स॒त् ॥
तुविग्रीवो बहुज्वालः प्रभूतग्रिवो वा वृषभो वर्षिता कामानां ववृधानो वर्धमानोऽब्निरर्योऽरेर्वेदो धनमतत्ट्रकण्टकं समजाति । संयोजयति । इतीममर्थमग्निममृता अन्ये देवा आवोचन् । यस्मादेवं तस्माद्बर्हिष्मते यागवते मनवे मनुष्याय यजमानाय शर्म सुखं यं नत् । यच्छतु । हविष्मते च शर्म यंसत् ॥ १२ ॥