नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र ।
ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥
नु । नः॒ । आ । इ॒हि॒ । वार्य॑म् । अग्ने॑ । गृ॒णा॒नः । आ । भ॒र॒ ।
ये । व॒यम् । ये । च॒ । सू॒रयः॑ । स्व॒स्ति । धाम॑हे । सचा॑ । उ॒त । ए॒धि॒ । पृ॒त्ऽसु । नः॒ । वृ॒धे ॥
हेअग्ने गृणानः स्तूयमानःसन् नुक्षिप्रं एहि यज्ञंप्रत्यागच्छ आगत्यच नोस्मभ्यंवार्यंवरणीयंधनं आभर संपादय येवयंयजमानाः येचसूरयः स्तोतारः सचाहविर्भिः सहिता उभे ये वयं स्वस्ति स्तोत्रंधामहे कुर्मः उतअपिच पृत्सु पृतनासुनोस्माकंवृधेसमृद्धये एधि भव ॥ ५ ॥
आयज्ञैरितिपंचर्चंतृतीयंसूक्तं आत्रेयस्यपूरोरार्षमाग्नेयम् अंत्यापंक्तिः शिष्टाः पंक्त्यंतपरिभाषयाअनुष्टुभः आयज्ञैरित्यनुक्रमणिका अंत्यावर्जंप्रातरनुवाकाश्विनशस्त्रयोर्बृहद्वयइत्यादिदशसूक्तमध्येविनियोगउक्तः ।