यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः ।
अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥
यत् । त्वा॒ । सू॒र्य॒ । स्वः॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒सु॒रः ।
अक्षे॑त्रऽवित् । यथा॑ । मु॒ग्धः । भुव॑नानि । अ॒दी॒ध॒युः॒ ॥
इदमादिचतुर्भिर्मंत्रैरत्रीणांकर्मकीर्त्यते हेसूर्य प्रेरक देव त्वा त्वां यद्यदा आसुरः असुरस्यप्राणापहर्तुरसुर्यावापुत्रः स्वर्भानुः स्वर्भानुसंज्ञकस्तमसामायानिर्मितेनाविध्यत् आवृणोदित्यर्थः तदा भुवनानिसर्वाणि अदीधयुः दृश्यन्ते तथा तत्रत्यःसर्वोजनः अक्षेत्रवित् स्वस्वस्थानमजानन् मुग्धोमूढोभवति तथा ॥ ५ ॥