अ॒ग्निम॑ग्निं वः स॒मिधा॑ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ ।
उप॑ वो गी॒र्भिर॒मृतं॑ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं॑ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ॥
अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । स॒म्ऽइधा॑ । दु॒व॒स्य॒त॒ । प्रि॒यम्ऽप्रि॑यम् । वः॒ । अति॑थिम् । गृ॒णी॒षणि॑ ।
उप॑ । वः॒ । गीः॒ऽभिः । अ॒मृत॑म् । वि॒वा॒स॒त॒ । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । वार्य॑म् । दे॒वः । दे॒वेषु॑ । वन॑ते । हि । नः॒ । दुवः॑ ॥
हेऽस्मदीयाःस्तोतारोवोयूयं प्रियंप्रियं अत्यंतंप्रियं वोयुष्माकमतिथिं अतिथिवत्पूज्यं गृणीषणि शब्दनीयं स्तुत्यं अग्निमग्निं अग्निमेव नान्यंदेवमित्यर्थः समिधा समिन्धनेन समिद्भिर्वा दुवस्यत परिचरत यद्वा गृणीषणीतिसप्तम्यन्तं गृणीषणि स्तोत्रे विषयतयावर्तमानं अपिच वोयूयं अमृतममरणं अग्निं गीर्भिःस्तुतिभिः उपेत्य विवासत परिचरत हियस्मात् देवेषुमध्ये देवोदानादिगुणयुक्तोग्निः वार्यं वरणीयं समिदादिकं वनते संभजते हियस्माच्च देवेषुमध्ये देवोग्निः नोस्माकं दुवः परिचरणं वनते संभजते तस्माद्दवस्यतेत्यन्वयः ॥ ६ ॥ दशमेहन्याग्निमारुतेसमिद्धमितितृचोजातवेदस्यनिविद्धानार्थः सूत्रितंच—समिद्धमग्निंसमिधागिरागृणइतितृचश्चेति ।