जनं॑ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो॑ रन्धया॒ येष्वस्मि॑ ।
अधा॒ हि त्वा॑ पृथि॒व्यां शूर॑सातौ॒ हवा॑महे॒ तन॑ये॒ गोष्व॒प्सु ॥
जन॑म् । व॒ज्रि॒न् । महि॑ । चि॒त् । मन्य॑मानम् । ए॒भ्यः । नृऽभ्यः॑ । र॒न्ध॒य॒ । येषु॑ । अस्मि॑ ।
अध॑ । हि । त्वा॒ । पृ॒थि॒व्याम् । शूर॑ऽसातौ । हवा॑महे । तन॑ये । गोषु॑ । अ॒प्ऽसु ॥
येषु येषांनृणांमध्ये अहमस्मि एकोभवामि हेवज्रिन् वज्रवन्निन्द्र त्वं एभ्योनृभ्योमनुष्येभ्यः महि महदत्यन्तमात्मानंमन्यमानंजनं बहु- मन्यमानमित्यर्थः रन्धय वशीकुरु चिदिति पादपूरणः अधाधुना पृथिव्यां भूम्यां शूरसातौ युद्धे प्रवृत्तेसति तनये पुत्रेनिमित्तेच गोषु प- शुषु अप्सु उदकेषुचनिमित्तेषु हेइन्द्र त्वा द्युलोकेस्थितं त्वां हवामहे वयमाह्वयामः ॥ १२ ॥