उत्पू॒षणं॑ युवामहे॒ऽभीशूँ॑रिव॒ सार॑थिः ।
म॒ह्या इन्द्रं॑ स्व॒स्तये॑ ॥
उत् । पू॒षण॑म् । यु॒वा॒म॒हे॒ । अ॒भीशू॑न्ऽइव । सार॑थिः ।
म॒ह्यै । इन्द्र॑म् । स्व॒स्तये॑ ॥
पूषणंपोषकंदेवमिन्द्रंचमह्यैमहत्यै स्वस्तयेरक्षार्थंउद्युवामहे उद्योजयामः उद्योजनमाकर्षणं तत्रदृष्टान्तः—सारथिःसूतः अभीशूनिव अभीशून् रश्मीन् अश्वबन्धनार्थान् आकर्षतितद्वत् ॥ ६ ॥
शुक्रंतइतिचतुरृचंनवमंसूक्तं भरद्वाजस्यार्षंपौष्णं द्वितीयाजगती शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं—शुक्रंचतुष्कंद्वितीयाजगतीति । वैश्वदेवेद्पर्वणिवैश्वदेवस्यहविषः शुक्रंतइतियाज्या सूत्रितंच—शुक्रंतेअन्यद्यजतंतेअन्यदिहेहवःस्वतवसइति । एकादशिनस्यपौष्ण- स्यपशोर्वपायाएषैवयाज्या सूत्रितंच—शुक्रंतेअन्यद्यजतंतेअन्यत्प्रपथेपथामजनिष्टपूषाइति । अमाभिष्टवेप्येषासूत्रितंच—शुक्रंतेअन्यद्य- जतंतेअन्यदपश्यंगोपामनिपद्यमानमिति ।