इन्द्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे ।
अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥
इन्द्रा॑विष्णू॒ इति॑ । तत् । प॒न॒याय्य॑म् । वा॒म् । सोम॑स्य । मदे॑ । उ॒रु । च॒क्र॒मा॒थे॒ इति॑ ।
अकृ॑णुतम् । अ॒न्तरि॑क्षम् । वरी॑यः । अप्र॑थतम् । जी॒वसे॑ । नः॒ । रजां॑सि ॥
हे इन्द्राविष्णू वां युवयोः तत्कर्म पनयाय्यं स्तुत्यं किं तत्कर्मेत्यतआह सोमस्य मदे सति यदुरु विस्तीर्णं चक्रमाथे विचक्रमाथे । यद्यपि विष्णोरेव विक्रमः तथाप्येकार्थत्वात् उभयोरित्युच्यते यच्चान्तरिक्षं वरीयः उरुतरं अकृणुतं अकुरुतं यदपि च रजांसि लोकान् सर्वान् लोकारजांस्यच्यन्तइति यास्कः । नोस्माकं जीवनाय अप्रथतं अप्रथयतं ॥ ५ ॥