वंस्व॒ विश्वा॒ वार्या॑णि प्रचेतः स॒त्या भ॑वन्त्वा॒शिषो॑ नो अ॒द्य ॥
वंस्व॑ । विश्वा॑ । वार्या॑णि । प्र॒चे॒त॒ इति॑ प्रऽचेतः । स॒त्याः । भ॒व॒न्तु॒ । आ॒ऽशिषः॑ । नः॒ । अ॒द्य ॥
हे प्रचेतःप्रकृष्टमतिमन्नग्ने विश्वा विश्वानि वार्याणि वरणीयानि धनानि वंस्व अस्मभ्यं देहि नोस्माकमाशिषोद्य सत्यायथार्था भवन्तु ॥ ५ ॥