सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः ।
वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥
सूर्य॑स्यऽइव । व॒क्षथः॑ । ज्योतिः॑ । ए॒षा॒म् । स॒मु॒द्रस्य॑ऽइव । म॒हि॒मा । ग॒भी॒रः ।
वात॑स्यऽइव । प्र॒ऽज॒वः । न । अ॒न्येन॑ । स्तोमः॑ । व॒सि॒ष्ठाः॒ । अनु॑ऽएतवे । वः॒ ॥
हे वसिष्ठाः एषां वोयुष्माकं स्तोमोमहिमापिवा सूर्यस्यज्योतिरिव वक्षथः प्रकाशोस्ति हे वसिष्ठावोयुष्माकं महिमा स्तोमोपिवा समुद्र- स्येव गभीरोस्ति तथा हे वसिष्ठाः एषां वोयुष्माकं स्तोमोऋक्समूहः महिमापिवा वातस्येव प्रजवः यथा वातस्य प्रवेगोन्येनान्वेतुं नशक्यः तद्वदन्येन तव महिमाअन्वेतवेअन्वेतं न शक्यः ॥ ८ ॥