स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ ।
व॒या इ॒वानु॑ रोहते जु॒षन्त॒ यत् ॥
स्तो॒ता । यत् । ते॒ । विऽच॑र्षणिः । अ॒ति॒ऽप्र॒श॒र्धय॑त् । गिरः॑ ।
व॒याःऽइ॑व । अनु॑ । रो॒ह॒ते॒ । जु॒षन्त॑ । यत् ॥
हे इन्द्र विचर्षणिर्विशेषेण द्रष्टा स्तोता ते तुभ्यं त्वदर्थं गिरः स्तुतीः यद्यदा अतिप्रशर्धयत् अतिशयेन प्रशर्धयित्रीरकरोत् शत्रूणां प्रस- हनसमर्थाः । शृधुप्रसहने । यद्यदाच ता गिरः जुषंत त्वामसेवन्त अप्रीणयन् वा । तदा वयाइव शाखाइव यथा एकस्मिन्वृक्षे बध्दाः शा- खाउपरि प्ररोहंति तथा अनुरोहते स्तुत्या सर्वेगुणाः त्वयि प्ररोहन्ति ॥ ६ ॥