वी॒ळु॒प॒विभि॑र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभि॑ः ।
इ॒षा नो॑ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो॑भरी॒यवः॑ ॥
वी॒ळु॒प॒विऽभिः॑ । म॒रु॒तः॒ । ऋ॒भु॒क्ष॒णः॒ । आ । रु॒द्रा॒सः॒ । सु॒दी॒तिऽभिः॑ ।
इ॒षा । नः॒ । अ॒द्य । आ । ग॒त॒ । पु॒रु॒ऽस्पृ॒हः॒ । य॒ज्ञम् । आ । सो॒भ॒री॒ऽयवः॑ ॥
हे ऋभुक्षणः महान्तः उरुभासमाननिवासावा हे रुद्रासो रुद्राः रुद्रपुत्राः ईदृशाः हे मरुतः सुदीतिभिः शोभनदीप्तिकैः वीळुपविभिः रथनेमयः पवयः वीळु दृढाः पवयोयेषु तादृशैरथैरागत आगच्छत । एतदेव विवृणोति-हे पुरुस्पृहः बहुभिः स्पृहणीयाः ईप्सितव्याः सोभरीयवः सोभरिमृषिं मां का- मयमानाःसन्तः अद्य इदानीं यज्ञं अस्मदीयं यागं इषा अस्मभ्यं दातव्येन अन्नेन सह आगत आगच्छत शीघ्रं कालविलंबं माकुरुत ॥ २ ॥