व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषि॑ः ।
म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ॥
विऽअ॑श्वः । त्वा॒ । व॒सु॒ऽविद॑म् । उ॒क्ष॒ण्युः । अ॒प्री॒णा॒त् । ऋषिः॑ ।
म॒हः । रा॒ये । तम् । ऊं॒ इति॑ । त्वा॒ । सम् । इ॒धी॒म॒हि॒ ॥
उक्षण्युः धनानांसेक्तारमात्मनइच्छन् यद्वा वृष्टिसेक्तारमिच्छन् व्यश्वऋषिः एतन्नामकोममपिता वसुविदं वसूनां धनानां लंभकं त्वा त्वामप्रीणात् धनादिप्राप्त्यर्थं हविर्भिःअतोषयत् । तथा वयमपि महोमहते राये धनाय तमु तथाविधमेव त्वा त्वां समिधीमहि सम्यगाज्यादिहविर्भिर्दीपयेम ॥ १६ ॥