तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से ।
स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणि॑ः ॥
तम् । ऊं॒ इति॑ । त्वा॒ । नू॒नम् । ई॒म॒हे॒ । नव्य॑म् । दं॒सि॒ष्ठ॒ । सन्य॑से ।
सः । त्वम् । नः॒ । विश्वाः॑ । अ॒भिऽमा॑तीः । स॒क्षणिः॑ ॥
हे दंसिष्ठ अतिशयेन दर्शनीयेन्द्र नव्यं स्तोतृभिः स्तोतव्यं तमु तादृशमेव त्वा त्वां नूनमिदानीमीमहे वयं याचामहे । किमर्थं संन्यसे असुक्षेपणे भावे- क्किप् संन्यासार्थं याचामहइति शेषः । सतादृशस्त्वं नोस्माकं विश्वाः सर्वाअभिमातीः शत्रुसेनाः सक्षणिः सहेः सनिः प्रत्ययः सहनशीलोभिभवनशी- लोभवसि ॥ २६ ॥