दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः ।
ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑ ॥
दे॒वासः॑ । हि । स्म॒ । मन॑वे । सऽम॑न्यवः । विश्वे॑ । सा॒कम् । सऽरा॑तयः ।
ते । नः॒ । अ॒द्य । ते । अ॒प॒रम् । तु॒चे । तु । नः॒ । भव॑न्तु । व॒रि॒वः॒ऽविदः॑ ॥
समन्यवः समानमनसः यद्वा संग्रामेषु शत्रुहननार्थं समानक्रोधयुक्ताः विश्वे सर्वेएव देवासोहिष्म मरुदादयोदेवाःखलु मनवे एतन्नामकाय ऋषये म- त्द्यं साकं सह युगपदेव सरातयः धनादिदानेन सहिताभवन्तु । पुनरपि प्रार्थयते तेदेवाः नोस्माकं अद्यास्मिन्दिने अपरच्च किंबहुना सर्वेषु दिवसेषु धनदातारोभवन्तु । नकेवलमस्माकमेव किंतु तुचे तुगित्यपत्यनाम तुजिपिजिहिंसादाननिकेतनेषु तोजयति हिनस्ति पितुर्दुःखादिकमिति तुक् पुत्रः तस्मै नोस्माकं पुत्राय तु क्षिप्रं वरिवोविदः वरणीयस्य धनस्य लंभयितारोभवन्तु ॥ १४ ॥