तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् ।
उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥
तम् । शि॒शी॒त॒ । सु॒वृ॒क्तिऽभिः॑ । त्वे॒षम् । सत्वा॑नम् । ऋ॒ग्मिय॑म् ।
उ॒तो इति॑ । नु । चि॒त् । यः । ओज॑सा । शुष्ण॑स्य । आ॒ण्डानि॑ । भेद॑ति । जेष॑त् । स्वः॑ऽवतीः । अ॒पः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
हे स्तोतारः त्वेषं दीप्तं सत्वानं संभक्तारं धनानां ऋग्मियं ऋगर्हं ऋग्भिः स्तोतव्यं तमिन्द्रं सुवृक्तिभिः स्तुतिभिः शिशीत संस्कुरुत । उतोनुचित् अपिच यः इन्द्रः ओजसा बलेन शुष्णस्य शुष्णनामकस्यासुरस्याण्डान्यण्डजातान्यपत्यानि भेदत्यभिनत् सः स्वर्वतीर्दिव्यान्यपः सलिलानि जेषज्ज- यतु । सिद्धमन्यत् ॥ १० ॥