महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ ।
यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । दा॒शुषे॑ ।
यम् । आ॒दि॒त्याः॒ । अ॒भि । द्रु॒हः । रक्ष॑थ । न । ई॒म् । अ॒घम् । न॒श॒त् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
हे वरुण हे मित्र एतह्वयमर्यम्णोप्युपलक्षणं हे वरुणादयो महतां वो युष्माकं अवः रक्षणं महि महत् कस्मै दाशुषे हविर्दात्रे यजमानाय क्रियमाणम् । किञ्च हे आदित्याः यं यजमानं द्रुहो द्रोग्धुः सकाशादभिरक्षथ ईमेनं यजमानं अघं पापं ननशत् नप्राप्नोति । कुतएवमिति तत्रोच्यते-वो युष्माकमूत- यो रक्षणानि अनेहसः अपापानि अनुपद्रवाणिच ऊतयो वो युष्माकं रक्षणानि सऊतयः शोभनलक्षणानि । पूनरुक्तिरादरार्था ॥ १ ॥