मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् ४

संहिता

यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः ।
मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

यस्मै॑ । अरा॑सत । क्षय॑म् । जी॒वातु॑म् । च॒ । प्रऽचे॑तसः ।
मनोः॑ । विश्व॑स्य । घ॒ । इत् । इ॒मे । आ॒दि॒त्याः । रा॒यः । ई॒श॒ते॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

यस्मै मनुष्याय क्षयं निवासं जीवातुं जीवनसाधनमन्नञ्च प्रचेतसः प्रकृष्टमतयः अरासत प्रयच्छन्ति तस्मै यजमानाय तदर्थं इमे आदित्याः विश्वस्य घेत् सर्वस्याप्ययष्टुर्मनोर्मनुष्यस्य धनिकस्य रायो धनस्य ईशते स्वामिनो भवन्त्यपहृत्य यजमानाय प्रदातुम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः