मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४७, ऋक् ९

संहिता

अदि॑तिर्न उरुष्य॒त्वदि॑ति॒ः शर्म॑ यच्छतु ।
मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

पदपाठः

अदि॑तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ।
मा॒ता । मि॒त्रस्य॑ । रे॒वतः॑ । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

सायणभाष्यम्

नोस्मानदितिरखण्डनीया देवमाता उरुष्यतु रक्षतु तथा अदितिः शर्म सुखं यच्छतु । अदितिर्विशेष्यते या माता निर्मात्री कस्य मित्रस्य रेवतो धनवतोर्यम्णो वरुणस्यच । सा न उरुष्यत्विति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः