आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ ।
सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥
आदि॑त्याः । अव॑ । हि । ख्यत॑ । अधि॑ । कूला॑त्ऽइव । स्पशः॑ ।
सु॒ऽती॒र्थम् । अर्व॑तः । य॒था॒ । अनु॑ । नः॒ । ने॒ष॒थ॒ । सु॒ऽगम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥
हे आदित्या यूयं अवहिख्यत अवहि पश्यताधस्तात्स्थितानस्मान् । तत्रदृष्टान्तः-कूलादिवाधि कूले स्पशः स्पष्टाः स्थिताइत्यर्थः यथा कूलस्थः पुरुषोधोगतमुदकं जिज्ञासुः तत्रस्थं मनुष्यं वा विलोकयितुमवाक्पश्यति तद्वत् । तथा कृत्वा सुतीर्थं शोभनावतरप्रदेशं अर्वतोश्वान्यथा प्रापय- न्त्यश्वरक्षकास्तद्वन्नोस्मान् सुगं सुपन्थानमनुनेषथानुनयथ ॥ ११ ॥