त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि ।
त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥
त्वम् । नः॒ । अ॒स्याः । अम॑तेः । उ॒त । क्षु॒धः । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒धि॒ ।
त्वम् । नः॒ । ऊ॒ती । तव॑ । चि॒त्रया॑ । धि॒या । शिक्ष॑ । श॒चि॒ष्ठ॒ । गा॒तु॒ऽवित् ॥
हे इन्द्र त्वं नोस्मानस्या अमतेर्दारिद्मात्मिकायाः उतापिच क्षुधोभिशस्तेर्निंदायाश्च सकाशादवस्पृधि अवमोचय । किञ्च त्वं नोस्मभ्यं तवोती ऊत्या चित्रया धिया विचित्रेण कर्मणा शिक्ष देह्यभिमतम् । हे शविष्ठ बलवन् गातुविन्मार्गज्ञ उपायज्ञस्त्वम् ॥ १४ ॥