सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् ।
सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥
सु॒वि॒तस्य॑ । म॒ना॒म॒हे॒ । अति॑ । सेतु॑म् । दुः॒ऽआ॒व्य॑म् ।
सा॒ह्वांसः॑ । दस्यु॑म् । अ॒व्र॒तम् ॥
सुवितस्य शोभनंप्राप्तः सुवितः शोभनस्य सोमस्य सेतुं रक्षोविषयं बन्धं दुष्टमतिं च रक्षसां बंधनं तेषां हननबुद्धिंच सोमकर्तृका मनामहे स्तुमः । कथंस्तुमइति तदुच्यते अव्रतं दुराव्यं तद्ध्वूयं कर्माणं दस्युं शत्रुं साहवांसोभिभवन्तः ॥ २ ॥