आ ते॒ दक्षं॑ मयो॒भुवं॒ वह्नि॑म॒द्या वृ॑णीमहे ।
पान्त॒मा पु॑रु॒स्पृह॑म् ॥
आ । ते॒ । दक्ष॑म् । म॒यः॒ऽभुव॑म् । वह्नि॑म् । अ॒द्य । वृ॒णी॒म॒हे॒ ।
पान्त॑म् । आ । पु॒रु॒ऽस्पृह॑म् ॥
हे सोम यष्टारोवयं ते तव स्वभूतं दक्षं बलमद्यास्मिन्यागदिने आभिमुख्येन आवृणी महे संभजामहे । कीदृशं मयोभुवं सुखस्य भावुकं वह्निं वनादीनां प्रापकं पान्तं शत्रु- भ्योरक्षकं पुरुस्पृहं बहुभिः स्पृहणीयं काम्यमानं बलमिति ॥ २८ ॥