आ हि द्यावा॑पृथि॒वी अ॑ग्न उ॒भे सदा॑ पु॒त्रो न मा॒तरा॑ त॒तन्थ॑ ।
प्र या॒ह्यच्छो॑श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ॥
आ । हि । द्यावा॑पृथि॒वी इति॑ । अ॒ग्ने॒ । उ॒भे इति॑ । सदा॑ । पु॒त्रः । न । मा॒तरा॑ । त॒तन्थ॑ ।
प्र । या॒हि॒ । अच्छ॑ । उ॒श॒तः । य॒वि॒ष्ठ॒ । अथ॑ । आ । व॒ह॒ । स॒ह॒स्य॒ । इ॒ह । दे॒वान् ॥
हे अग्ने त्वं उभे द्यावापृथिवी द्यावापृथिव्यौ सदा सर्वदा आततन्थ आतेनिथ स्वते- जोभिर्विस्तारयसि हिखलु । बभूथाततंथेति थलि निपातितः । तत्र दृष्टान्तः—पुत्रोन यथा पुत्रोमातरा मातापितरौ क्षीणौ धनैस्तनोति तद्वत् । किंच हे यविष्ठ युवतमत्वं उ- शतः कामयमानानच्छाभिलक्ष्य प्रयाहि प्रकर्षेण गच्छ । अथानन्तरं हे सहस्य सहसोबल- स्य पुत्र हे अग्ने त्वं इहास्मदीये यज्ञे देवानिन्द्रादीन् आवह प्रापय ॥ ७ ॥
पिप्रीहीति सप्तर्चं द्वितीयं सूक्तं ऋष्याद्याः पूर्ववत् । पिप्रीहीत्यनुक्रान्तम् । प्रातरनुवा- काश्विनशस्त्रयोरुक्तः सूक्तविनियोगः । दर्शपूणमासयोराद्या स्विष्टकृतोनुवाक्या । सूत्रितंच— अथ स्विष्टकृतः प्रिप्रीहिदेवाँ उशतोयविष्ठेत्यनुवाक्येति ।