त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे॑दिरे ।
घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे॑ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ॥
त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । चारु॑म् । अ॒ग्ने॒ । नि । से॒दि॒रे॒ ।
घृ॒तऽप्र॑तीकम् । मनु॑षः । वि । वः॒ । मदे॑ । शु॒क्रम् । चेति॑ष्ठम् । अ॒क्षऽभिः॑ । विव॑क्षसे ॥
हे अग्ने त्वां मनुषोमनुष्याः यजमानयज्ञेषु यागेषु निषेदिरे नियमेन स्थापयन्ति । कीदृशं ऋत्विजं होतृनामकं चारुं रमणीयं घृतप्रतीकं आज्याहुतिपूर्णमुखं शुक्रं ज्वलन्तं अक्षभिर्व्याप्तैः तेजोभिः चेतिष्ठं अतिशयेन ज्ञातारम् । किमर्थं विवोमदे तव सोमादिहवि- र्जन्यविविधतृप्त्यर्थं यस्मादेवं तस्माद्विवक्षसे महान् भवसि ॥ ७ ॥