सं यद्वयं॑ यव॒सादो॒ जना॑नाम॒हं य॒वाद॑ उ॒र्वज्रे॑ अ॒न्तः ।
अत्रा॑ यु॒क्तो॑ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ॥
सम् । यत् । वय॑म् । य॒व॒स॒ऽअदः॑ । जना॑नाम् । अ॒हम् । य॒व॒ऽअदः॑ । उ॒रु॒ऽअज्रे॑ । अ॒न्तरिति॑ ।
अत्र॑ । यु॒क्तः । अ॒व॒ऽसा॒तार॑म् । इ॒च्छा॒त् । अथो॒ इति॑ । अयु॑क्तम् । यु॒न॒ज॒त् । व॒व॒न्वान् ॥
अन्या ऋषिरिन्द्रप्रसादलब्धं स्वस्य सर्वात्म्यं प्रकाशयति । जनानां लोकानां मध्ये ये यवसादः तृणस्यात्तारः पशवः ते वयमिति संसम्यक् जानीहि उपसर्गश्रुतेर्योग्यक्रियाध्या- हारः । ये च यवादः यवापेलक्षितस्यान्नस्यात्तारोमनुष्यास्तेपि वयमिति संजानीहि । वस्तु तस्तु उर्वज्रे विस्तीर्णे अजिरेंगणे हार्दाकाशरूपे यत् अंतः अंतर्यामिरूपं ब्रह्म तदहमस्मि अत्रा स्मिन् हार्दाकाशे युक्तः समाहितोभवानिन्द्रः अवसातारं आत्मनः संभक्तारं इच्छात् इच्छति आत्मसाक्षात्कर्तुम् । अथो अपिच अयुक्तं अयोगिनं ववन्वान् द्वितीयार्थे प्रथमा ववन्वतं अतिशयेन विषयन् सेवमानं पुरुषं युनजत् युनक्ति संसारे शापानुग्रहसमर्थोभव- द्रूपोहमेवास्मीति भावः ॥ ९ ॥