यो वो॑ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रमु॑ञ्चत् ।
तस्मा॒ इन्द्रा॑य॒ मधु॑मन्तमू॒र्मिं दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥
यः । वः॒ । वृ॒ताभ्यः॑ । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । यः । वः॒ । म॒ह्याः । अ॒भिऽश॑स्तेः । अमु॑ञ्चत् ।
तस्मै॑ । इन्द्रा॑य । मधु॑ऽमन्तम् । ऊ॒र्मिम् । दे॒व॒ऽमाद॑नम् । प्र । हि॒णो॒त॒न॒ । आ॒पः॒ ॥
यइन्द्रः बृताभ्यः मेघैरावृताभ्यः परिवेष्टिताभ्यः वोयुष्मभ्यं अद्भ्यः लोकं मेघोदरान्निर्ग मनमार्गं अकृणोदकरोत् । उइतिपूरणः । किञ्च यः वोयुष्मान् मह्या महत्याः अभिशस्तेर्मेघ परिवेष्टनाभिहिंसनात् अमुंचत् मोचितवान् । हे आपः यूयं तस्मै तादृशायेन्द्राय मधुमन्तं मधुरस्वादयुक्तं देवमादनं इन्द्रादिदेवानां सोमेन सह मिश्रीभूय तर्पयितारं ऊर्मिं अप्संघा- तं प्रहिणोतन अस्मद्यज्ञं प्रतिगमयत सोमाभिषवकर्मांगभावाय प्रस्थापयत ॥ ७ ॥