नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत ।
दू॒रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शंसत ॥
नमः॑ । मि॒त्रस्य॑ । वरु॑णस्य । चक्ष॑से । म॒हः । दे॒वाय॑ । तत् । ऋ॒तम् । स॒प॒र्य॒त॒ ।
दू॒रे॒ऽदृशे॑ । दे॒वऽजा॑ताय । के॒तवे॑ । दि॒वः । पु॒त्राय॑ । सूर्या॑य । शं॒स॒त॒ ॥
हे ऋत्विजोयूयं मित्रस्य वरुणस्य मित्रावरुणयोश्चक्षसे द्रष्ट्रे महोमहते देवाय द्योतमा- नाय दूरेदृशे दूरेसंतमपि पश्यते देवजाताय देवेषु जाताय देवार्थं उत्पन्नाय केतवे विश्वस्य प्रज्ञापकाथ दिवः पुत्राय पुत्रभूताय दिविजायमानत्वात् तत्पुत्रत्वव्यपदेशः सूर्याय सूर्यार्थं नमः कृत्वा तद्विहितं ऋतं यागादिलक्षणं कर्म सपर्यत पूजयत शंसत स्तुतिमपि कुरुत ॥ १ ॥