येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना॑ ।
तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑ दु॒ष्ष्वप्न्यं॑ सुव ॥
येन॑ । सू॒र्य॒ । ज्योति॑षा । बाध॑से । तमः॑ । जग॑त् । च॒ । विश्व॑म् । उ॒त्ऽइ॒यर्षि॑ । भा॒नुना॑ ।
तेन॑ । अ॒स्मत् । विश्वा॑म् । अनि॑राम् । अना॑हुतिम् । अप॑ । अमी॑वाम् । अप॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥
हे सूर्य त्वं येन ज्योतिषा तेजसा तमोधकारं बाधसे निवारयसि येन च भानुना ते- जसा विश्वं सर्वं जगज्जंगमनुदियर्षि उद्गमयसि तेन ज्योतिषास्म्दस्मत्तोविश्वां सर्वामनिरां अन्नाभावं अनाहुतिं अहोमं चामीवां रोगजातं चापसुव अपगमय दूःस्वप्न्यं दुःस्वप्नप्रभव- मरिष्टं चापसुव ॥ ४ ॥