तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म ।
ऊर्जा॑द उ॒त य॑ज्ञियास॒ः पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ॥
तत् । अ॒द्य । वा॒चः । प्र॒थ॒मम् । म॒सी॒य॒ । येन॑ । असु॑रान् । अ॒भि । दे॒वाः । असा॑म ।
ऊर्ज॑ऽअदः । उ॒त । य॒ज्ञि॒या॒सः॒ । पञ्च॑ । ज॒नाः॒ । मम॑ । हो॒त्रम् । जु॒ष॒ध्व॒म् ॥
दर्शपूर्णमासयोः सामिधेन्यर्थं प्रेषितेन होत्रा तदद्य वाच इत्येषाजप्या। स्रुगादापनात्पूर्वमपि जप्या। सूत्रितं च। तदद्य वाचः प्रथमं मसीयेति समाप्य। आ. १-२। इति॥
इदमुत्तरं चाग्नेर्वाक्यमित्युक्तम् । आद्येदानीं प्रथमम् । मुख्यानामैतत्। वाचां मुख्यं तद्वाचो वचो वचनं मसीय। मंसीय। उच्चारयामि। येन वचसाहं देवाश्च वयमसुरानभ्यसाम। अभिभवेम। किं तत्प्रथमं वचनमिति उच्यते। ऊर्जादो हे अनाद उतापि च यज्ञियासो यज्ञार्हा हे पञ्च जना देवमनुष्यादयः यूयं मम होत्रं जुषध्वम् । सेवध्वमिति। एवं बहूच्यमानेऽग्निमनूद्यन्ति सर्वे देवा इत्यभिप्रायः। अत्र तदद्य चाच इत्यादि निरुक्तं द्रष्टव्यम्। नि. ३-८॥४॥