ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् ।
दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑त॒ः सद॑जायत ॥
ब्रह्म॑णः । पतिः॑ । ए॒ता । सम् । क॒र्मारः॑ऽइव । अ॒ध॒म॒त् ।
दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ॥
ब्रह्मणोऽन्नस्य पतिरदितिरेतैतानि देवानां जन्मानि कर्मार इव स यथा भस्त्रयाग्निमुपधमिति प्रज्वलनार्थमेवं समधमत्। उदपादयदित्यर्थः। देवानां पूर्व्ये युगे। आदिसृष्टावित्यर्थः। तेषामुपादानकारणादसतो नामरूपवर्जितत्वेनासत्समानाद्ब्रह्मणः सकाशात्सन्नामरूपविषिष्टं देवादिकमजायत। प्रादुरभुत्। असद्वा इदमग्र आसीत्ततो वै सदजायत। तै. उ. २-७। इति हि श्रुतिः। न सदात्मकस्य प्रपञ्चस्यासत्कारणत्वं युक्तमिति वाच्यं छन्दोगैः कथमसतः सज्जायेतेत्यसत्कारणत्वमाक्षिप्य सत्त्वेव सोम्येदग्र आसीदित्यवधारितत्वात्। छां. उ. ६-२-२। तर्ह्यसत्कारण प्रतिपादकवाक्यानां का गतिरिति चेत् तेषामव्याकृतत्वाभिप्रायत्वात् तद्धेदम् तर्ह्यव्याकृतमासित्। शत. १४-४-२-१५। इति श्रुतेः। यद्येवम् तर्ह्यदितेः सकाशात्कथं देवाद्युत्पत्तिः। वायोरग्निरित्यादिवत् अधिष्ठानसकाशादुत्पत्तेः। यद्वा। देवानां कारनभुतं सदसतो ब्रह्मणः सकाशादुत्पन्नमिति योजनादुक्तन्यायोऽस्मिन्पक्षेऽपि समान एव॥२॥