जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।
अव॑र्ध॒न्निन्द्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥
जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भिमानः ।
अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥
जनिष्था इत्येकादशर्चं पञ्चमं सूक्तं शक्तिपुत्रस्य गौरिवीतेरार्षम् मारुतं त्रैष्तुभम् । तथा चानुक्रान्तम्। जनिष्था एकादश गौरिवितिरिति। अग्निष्तोमे मरुत्वतीयशस्त्र इदं सूक्तं निविद्धानम्। सूत्रितं च। जनिष्था उग्र इत्येकभूयसीः शस्त्वा मरुत्वतीयां निविदं दध्यात्। आ. ५-१४। इति। स्ॐइकचारुत्मास्येशु वैश्वेदेवेऽष्येतन्मरुत्वतीयम् निविद्धानम् । सूत्रितं च। जनिष्था उग्रो जज्ञ इति माध्यन्दिनः। आ. ९-२। इति । महाव्रतेऽपि निष्केवल्य एतत्सूक्तम्। तथैव पञ्चमारण्यके सूत्रितम्। जनिष्था उग्रः सहसे तुरायेति निविद्धानम्। ऐ. आ. ५-१-१-। इति॥
हे इन्द्र सहसे बलाय तुराय शत्रूणाम् हिम्सनाय त्वमुग्र उद्गूर्ण बलो जनिष्थाः। अजायथाः। कीदृशस्त्वम्। मन्द्रः स्तुत्य ओजिष्ठः। ल्जः शरीरबलं अतिशयेन तद्वान् बहुलाभिमानो भूयिष्ठाभिमानी। ईदृशं महानुभावमिन्द्र मत्र वृत्रवधे मरुतश्चिन्मरुतोऽप्यवर्धन्। स्तुत्या साहाय्येन वा वर्धितवन्तः। यद्यदा धनिष्ठा धारयित्रीन्द्रमाता वीरं दधनत् अधारयत्॥१॥