उदी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेळा महे त्वा ।
अ॒न्यामि॑च्छ प्रफ॒र्व्यं१॒॑ सं जा॒यां पत्या॑ सृज ॥
उत् । ई॒र्ष्व॒ । अतः॑ । वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो । नम॑सा । ई॒ळा॒म॒हे॒ । त्वा॒ ।
अ॒न्याम् । इ॒च्छ॒ । प्र॒ऽफ॒र्व्य॑म् । सम् । जा॒याम् । पत्या॑ । सृ॒ज॒ ॥
अतोऽस्माच्छयनाद्धेविश्वावसो कन्यास्वामिन्गन्धर्व उदीष्र्व। उद्गच्छ। ईर गतौ अदादिकः। अनुदात्तेत्। तस्य लोटि रूपम्। विश्वावसुर्नाम गन्धर्वः कन्यानामधिपतिर्यतः। लभामि तेन कन्यामिति हि मन्त्रः । स तादृश देव त्वां नमसा नमस्कारेणेळामहे। स्तुमः। स त्वमन्यां प्रघर्व्यं बृहन्नितंबां कन्यामिच्छ। जायां मां पत्या सह पुनः सं सृज॥२२॥