प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ ।
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ दधामि ॥
प्र । त्वा॒ । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । येन॑ । त्वा॒ । अब॑ध्नात् । स॒वि॒ता । सु॒ऽशेवः॑ ।
ऋ॒तस्य॑ । योनौ॑ । सु॒ऽकृ॒तस्य॑ । लो॒के । अरि॑ष्टाम् । त्वा॒ । स॒ह । पत्या॑ । द॒धा॒मि॒ ॥
पत्न्या योक्त्र विमोचने प्र त्वा मुञ्चामीत्येषा। सूत्रितं च। अथास्या योक्त्रं विचृतेत्प्र त्वा मुञ्चामि वरुणस्य पाशात्। आ. १-११। इति॥
जातं प्राणिनं सवित्रा प्रेरितो वरुण आत्मपाशैर्बध्नाति। तस्माद्वरुणस्य पाशात् हे वधु त्वा त्वां प्र मुञ्चामि येन त्वा त्वां सविता वरुणस्य प्रेरकः सुशेवः सुखोऽबध्नात् बन्धनं कृतवान्। यज्ञाङ्गपक्षे पत्नीं योक्त्रेण बध्नाति। बन्धनस्य वरुणोऽभिमानी। अतो वरुणपाशाद्योक्त्रात्प्र मुञ्चामि येन योक्त्रेण सविता कर्मणामनुज्ञाता देव ऋत्विक्पाशेनाबध्नात्। तं मोचयित्वा चर्तस्य यज्ञस्य योनौ स्थाने यागभूमौ सुकृतस्य लोके कर्मक्षेत्रे भूलोके चारिष्टामहिंसितां त्वां पुत्राद्यर्थं पत्या सह दधामि। स्थापयामि॥२४॥