किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः ।
यस्मा॑ इर॒स्यसीदु॒ न्व१॒॑र्यो वा॑ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
किम् । अ॒यम् । त्वाम् । वृ॒षाक॑पिः । च॒कार॑ । हरि॑तः । मृ॒गः ।
यस्मै॑ । इ॒र॒स्यसि॑ । इत् । ऊं॒ इति॑ । नु । अ॒र्यः । वा॒ । पु॒ष्टि॒ऽमत् । वसु॑ । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥
हे इन्द्र त्वां पति हरितो हरितवर्णॊ मृगो मृगभूतोऽयं वृषाकपिः। मृगजातिर्हि वृषाकपिः। किं प्रियं चकार। अकार्षीत्। यस्मै वृषाकपये पुष्टिमत्पोषयुक्तम् वसु धनमर्यो वोदार इव स त्वं नु क्षिप्रमिरस्यसीत् प्रयच्छस्येव। य निद्रो विश्वस्मादुत्तरः॥३॥