अ॒यमि॑न्द्र वृ॒षाक॑पि॒ः पर॑स्वन्तं ह॒तं वि॑दत् ।
अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥
अ॒यम् । इ॒न्द्र॒ । वृ॒षाक॑पिः । पर॑स्वन्तम् । ह॒तम् । वि॒द॒त् ।
अ॒सिम् । सू॒नाम् । नव॑म् । च॒रुम् । आत् । एध॑स्य । अनः॑ । आऽचि॑तम् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥
हे इन्द्र अयं वृषाकपिः परस्वन्तं परस्वमात्मनो विषयेऽवर्तमानम् हतं हिंसितं विदत्। विन्दतु। तथा हतस्य विशसनायासिं शस्त्रं सूनामुद्धानं पाकार्थं नवं प्रत्यग्रं चरुम् भाण्डमादनन्तरमेध्यस्य काष्ठस्याचितं पूर्णमनः शकटं च विन्दतु। मम पतिरिन्द्रो विश्वस्मादुत्तरः॥१८॥