नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो॑ विदु॒रङ्गि॑रसश्च घो॒राः ।
गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥
न । अ॒हम् । वे॒द॒ । भ्रा॒तृ॒ऽत्वम् । नो इति॑ । स्व॒सृ॒ऽत्वम् । इन्द्रः॑ । वि॒दुः॒ । अङ्गि॑रसः । च॒ । घो॒राः ।
गोऽका॑माः । मे॒ । अ॒च्छ॒द॒य॒न् । यत् । आय॑म् । अप॑ । अतः॑ । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः ॥
सा तान्प्रत्याचष्टे। हे पणयः अहं भ्रातृत्वं न वेद। न जानामि। तथा स्वसृत्वं च नो वेद। नैव जानामि। के जानन्ति। तानाह। इन्द्रो घोराः शत्रूणां भयङ्करा अङ्गिरसश्च विदुः। जानन्ति। किञ्चास्मात्स्थानादहं यद्यदायं इन्द्रादीन्प्राप्नवम् । अय पय गतौ। लङि रूपम्। तदा मे मदीया गोकामायुश्माभिरपहृता गाः कामयमाना इन्द्रादय आच्छदय। युश्मदीयं स्थानमाच्छादयन्ति। छद अपवारने। अतः कारणाद्धे पणयः वरीय उरुतरं गवं वृन्दं परित्यज्यापेत। अन्यत्स्थानं प्रति गच्छत। यद्वा। वरीयः। प्रभूतमतिदूरं देशं गच्छत। इत । इण् गतौ। लोटि रूपम् वरीयः। उरिशब्दादीयसुनि प्रियस्थिरेत्यादिना वरादेशः॥१०॥