नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा॑सतं॒ धियः॑ ।
अथा॒ हि वां॑ दि॒वो न॑रा॒ पुन॒ः स्तोमो॒ न वि॒शसे॑ ॥
नरा॑ । दंसि॑ष्ठौ । अत्र॑ये । शुभ्रा॑ । सिसा॑सतम् । धियः॑ ।
अथ॑ । हि । वा॒म् । दि॒वः । न॒रा॒ । पुन॒रिति॑ । स्तोमः॑ । न । वि॒ऽशसे॑ ॥
हे नरा नरौ हे दंसिष्ठौ दर्शनीयतमौ शुभ्रा शोभमानौ ईदृशौ हे अश्विनौ अत्रय ऋषये मह्यं धियः कर्माणि बुद्धीर्वा सिषासतम्। दातुमिच्छतम्। षनु दाने। यद्वा। अत्रय इति षष्ठ्यर्थे चतुर्थी। अत्रेर्मम धियः स्तुतीः कर्माणि वा सिषासन्तम्। सम्भक्तुमिच्छतम्। सेवेथामित्यर्थः। वन षन सम्भक्तौ। अस्मात्सनतेः सनोतेर्वा सनि सनीवन्तर्धेति विकल्पनादिडाभावे जनसनखनामित्यात्वम्। शुभ्रेत्यस्यामन्त्रितस्यामन्त्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वेन पदादपरत्वेन पादादित्वात्तिङ्ङतिङ इति निघाताभावः। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे सनो नित्त्वादाद्युदात्तत्वम्। अथा ह्यनन्तरमेव दिवः। दीव्यतिति स्तौतिति द्यौः स्तोता। तस्य मम स्तोमो न। न शब्दाश्चार्थे। स्तोत्रं च हे नरा नेतारावश्विनौ वां युवां पुनर्विशसे। पुनरेवाद्यापि विशेषेन शंसितुं प्रभवतीति शेषः॥३॥