मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १०८, ऋक् १३

संहिता

ए॒वेन्द्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥

पदपाठः

ए॒व । इ॒न्द्रा॒ग्नी॒ इति॑ । प॒पि॒ऽवांसा॑ । सु॒तस्य॑ । विश्वा॑ । अ॒स्मभ्य॑म् । सम् । ज॒य॒त॒म् । धना॑नि ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

सायणभाष्यम्

हे इंद्राग्नी सुतस्याभिषुतं सोममेवैवं पपिवांसा पीतवंतौ युवामस्मभ्यं विश्वा सर्वाणि धनानि सं जयतम् । प्रयच्छतम् । यदनेन सूक्तेन प्रार्थितं तन्मित्रादयो ममहंताम् । पूजयंतु ॥ पपिवांसा । पा पाने । लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः ॥ १३ ॥

  • अनुवाकः  १६
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७