न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू॑वन् ।
युजं॒ वज्रं॑ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ॥                
                    न । ये । दि॒वः । पृ॒थि॒व्याः । अन्त॑म् । आ॒पुः । न । मा॒याभिः॑ । ध॒न॒ऽदाम् । प॒रि॒ऽअभू॑वन् ।
युज॑म् । वज्र॑म् । वृ॒ष॒भः । च॒क्रे॒ । इन्द्रः॑ । निः । ज्योति॑षा । तम॑सः । गाः । अ॒धु॒क्ष॒त् ॥                
ये जलविशेषा दिवो द्युलोकात्पृथिव्या अंतं भूमेः स्थानं नापुर्न प्राप्ताः । मेघरूपमापन्नेन वृत्रेण निरुद्धत्वात् । अत एव भूमिप्राप्त्यभावाद्धनदां धनप्रदां भूमिं मायाभिः सस्योपकारादिभिः कर्मभिर्न पर्यभूवन् । परितो न व्याप्ताः । जलपानसस्याभिवृद्ध्याद्युपकारं न चक्रुरित्यर्थः । तदानीमयमिंद्रो मेघभेदनाय वज्रं युजं स्वहस्तयुक्तं चक्रे । ततो ज्योतिषा द्योतमानेन वज्रेण तमस अंधकाररूपान्मेघाद्गा गमनशीलान्युदकानि निरधुक्षत् । निःशेषेण दुग्धवान् । मेघं भित्वा जलं वृष्टवानित्यर्थः ॥ दिवः । ऊडिदमिति षष्ठ्या उदात्तत्वम् । आपुः । आप्लृ व्याप्तौ । लिट्युसि रूपम् । यद्वृत्तयोगादनिघातः । पर्यभूवन् । आत्रापि यच्छब्धस्यानुषंगान्निघाताभावः । युजम् । युजिर् योगे । ऋत्विगित्यादिना क्विन् । अनित्यमागमशासनमिति वचनान्नुमभावः । अधुक्षत् । दुह प्रपूरणे । लुङि शलइगुपधादनिटः क्सः (पा ३-१-४५) इति च्लेः क्सादेशः । दादेर्धा तोर्घः (पा ८-२-३२) इति घत्वम् । एकाचो बश इत्यादिना (पा ८-३-३७) भष्भावः । संहितायां भष्भावाभावश्छांदसः ॥ २ ॥ १० ॥