यु॒क्तस्ते॑ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो ।
तेन॑ जा॒यामुप॑ प्रि॒यां म॑न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑ ॥
यु॒क्तः । ते॒ । अ॒स्तु॒ । दक्षि॑णः । उ॒त । स॒व्यः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
तेन॑ । जा॒याम् । उप॑ । प्रि॒याम् । म॒न्दा॒नः । या॒हि॒ । अन्ध॑सः । योज॑ । नु । इ॒न्द्र॒ । ते॒ । हरी॒ इति॑ ॥
हे शतक्रतो बहुकर्मवन्निंद्र ते त्वदीये रथे दक्षिणो दक्षिणपार्श्वस्थोऽश्वो युक्तोऽस्तु । उतापि च सव्यो वामपार्श्वस्थोऽपि युक्तोऽस्तु । तेन रथेनांधसः सोमलक्षणस्यान्नस्य पानेन मंदानो मत्तस्त्वं प्रियां प्रीणयित्रीं जायामुप याहि । सा यत्र वर्तते तत्र गच्छेत्यर्थः । तदर्थं हे इंद्र त्वदीयावश्वौ रथे क्षिप्रं योजय । अनयोत्तरया च पीतसोमस्येंद्रस्य स्वगृहं प्रति प्रस्थानं प्रतिपाद्यते ॥ मंदानः । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । लिटः कानच् । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यमिति द्विर्वचनाभावः । अंधसः । अद भक्षणे । अदेर्नुम् धश्च उ ४-२०५ । इत्यसुन् । धातोर्नुमागमो धकारांतादेशश्च ॥ ५ ॥