मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८६, ऋक् २३

संहिता

पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् ।
भ॒द्रं भ॑ल॒ त्यस्या॑ अभू॒द्यस्या॑ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

पदपाठः

पर्शुः॑ । ह॒ । नाम॑ । मा॒न॒वी । सा॒कम् । स॒सू॒व॒ । विं॒श॒तिम् ।
भ॒द्रम् । भ॒ल॒ । त्यस्यै॑ । अ॒भू॒त् । यस्याः॑ । उ॒दर॑म् । आम॑यत् । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥

सायणभाष्यम्

इन्द्रविसृज्यमानमनेन मन्त्रेण वृषाकपिराशास्ते। हे भलेन्द्रेण विसृज्यमान शर। भलतिर्भेदनकर्मा। पर्शुर्नाम मृगी। हेति पूरनः। मानवी मनोर्दुहितेयं विंशतिं विंशतिसङ्ख्याकान्पुत्रान् साकं सह ससूव। अजीजनत्। त्यस्यै तस्यै भद्रम् भजनीयं कल्याणमभुत्। भवतु। लोडर्थे लुङ्। यस्या उदरमामयत्। गर्भस्थैर्विंशतिभिः पुत्रई पुष्टमासीत्। मम पितेन्द्रो विश्वस्मादुत्तरः॥२३॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः