प॒र॒शुं चि॒द्वि त॑पति शिम्ब॒लं चि॒द्वि वृ॑श्चति ।
उ॒खा चि॑दिन्द्र॒ येष॑न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ॥
प॒र॒शुम् । चि॒त् । वि । त॒प॒ति॒ । शि॒म्ब॒लम् । चि॒त् । वि । वृ॒श्च॒ति॒ ।
उ॒खा । चि॒त् । इ॒न्द्र॒ । येष॑न्ती । प्रऽय॑स्ता । फेन॑म् । अ॒स्य॒ति॒ ॥
परशुं चित् । चिच्छब्दः उपमार्थः । यथा परशुं कुठारं प्राप्य वृक्षो वितपति विशिष्टतापयुक्तो भवति । एवं मदीयो द्वेष्टा वितपतु । शिंबलं चित् शल्मलीकुसुमं यथानायासेन वि वृश्चति विच्छिद्यते । एवं स द्वेष्टा विवृश्चति । विच्छिन्नावयवो भवतु । प्रयस्ता प्रहता येषन्ती स्रवन्त्युखा चित् स्थालीव स द्वेष्टामदीयमन्त्रसामर्थ्येन प्रहतः सन् फेनमस्यति । फेनं मुखादुद्गिरतु ॥ २२ ॥