स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः ।
रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥                
                    सः । दू॒तः । विश्वा॑ । इत् । अ॒भि । व॒ष्टि॒ । सद्म॑ । होता॑ । हिर॑ण्यऽरथः । रम्ऽसु॑जिह्वः ।
रो॒हित्ऽअ॑श्वः । व॒पु॒ष्यः॑ । वि॒भाऽवा॑ । सदा॑ । र॒ण्वः । पि॒तु॒मती॑ऽइव । स॒म्ऽसत् ॥                
देवानां दूतो होता देवानामाह्वाता हिरण्यरथः सुवर्नमयरथोपेतो रंसुजिह्वो रमणीयशोभनज्वालोपेतः स तादृशोऽग्निर्विश्वेत् सर्वाण्वेव सद्म देवयजनस्थानन्यभि वष्टि । कामयते । पुनश्च कीदृशः । रोहिदश्वः । रोहितवर्णा आश्वा यस्य स तथोक्तः । वपुष्यो वपुषि रूपे साधुर्विभावा कान्तियुक्तोऽत एव सदा रण्वो रमणीयो भवति । तत्र दृष्टान्तः । पितुमतीव संसत् । यथान्नादिवत्समृद्धं गृहं रमणीयं तद्वत् । रंसु जिह्वः । रमतेरन्येभ्योऽपि दृश्यन्त इति विच् । बहुव्रीहौ पूर्वपदस्वरः । वपुष्यः । तत्र साधुरिति यत् । तित्स्वरितः । विभावा । छन्दसीवनिपाविति वनिप् ॥ ८ ॥