स चे॑तय॒न्मनु॑षो य॒ज्ञब॑न्धु॒ः प्र तं म॒ह्या र॑श॒नया॑ नयन्ति ।
स क्षे॑त्यस्य॒ दुर्या॑सु॒ साध॑न्दे॒वो मर्त॑स्य सधनि॒त्वमा॑प ॥                
                    सः । चे॒त॒य॒त् । मनु॑षः । य॒ज्ञऽब॑न्धुः । प्र । तम् । म॒ह्या । र॒श॒नया॑ । न॒य॒न्ति॒ ।
सः । क्षे॒ति॒ । अ॒स्य॒ । दुर्या॑सु । साध॑न् । दे॒वः । मर्त॑स्य । स॒ध॒नि॒ऽत्वम् । आ॒प॒ ॥                
यज्ञबन्धुः । यज्ञेऽग्निहोत्रादौ बन्धनं विनियोचनं यस्य स तथोक्तः । सोऽग्निर्मनुषः कर्मणि प्रवृत्तान्मनुष्यान् चेतयत् । जानाति । मह्या महत्या रशनया स्तुतिरूपया रज्ज्वा युक्तं तं तादृशमग्निं प्रनयन्ति । उत्तरवेद्यादिश्वध्वर्व्यादयः प्रक्षिपन्ति । मर्तस्य मनुष्यास्यास्य यजमानस्य दुर्यासु गृहेषु साधन् अभीश्टानि साधयन् सोऽग्निः क्षेति । वसति । स देवो द्योतमानोऽग्निः सधनित्वं यस्य गृहे निवसति तेन धनिना साहित्यमाप । प्राप्नोति । प्रभूतं धनं यजमानाय दापयित्वा तेन सहितोऽभवदित्यर्थः । राध साध संसिद्धौ ण्यन्तस्य शतरि रूपं ॥ ९ ॥