मण्डलवर्गीकरणम्

मण्डलम् ४, सूक्तम् १०, ऋक् ८

संहिता

शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे ।
सा नो॒ नाभि॒ः सद॑ने॒ सस्मि॒न्नूध॑न् ॥

पदपाठः

शि॒वा । नः॒ । स॒ख्या । सन्तु॑ । भ्रा॒त्रा । अग्ने॑ । दे॒वेषु॑ । यु॒ष्मे इति॑ ।
सा । नः॒ । नाभिः॑ । सद॑ने । सस्मि॑न् । ऊध॑न् ॥

सायणभाष्यम्

हे अग्ने नोऽस्मदीयानि सख्या सख्यानि सखित्वानि भ्रात्रा भ्रात्राणिभ्रातृसम्बन्धीनि कर्माणि देवेषु द्योतमानेषु युष्मे युष्मासु । सुपां सुलुगिति सप्तमी बहुवचनस्य शे आदेशः । शिवा शिवानि सन्तु । मङ्गलानि भवन्तु । सा सखित्वाभ्रातृकर्म सन्ततिः सदने देवानां स्थाने सस्मिन्नूधनि सर्वस्मिन्यज्ञे नोऽस्माकं नाभिर्बन्धनं भवति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०