मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६२, ऋक् १

संहिता

उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् ।
स॒मो दि॒वा द॑दृशे॒ रोच॑मान॒ः क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥

पदपाठः

उत् । सू॒र्यः॑ । बृ॒हत् । अ॒र्चींषि॑ । अ॒श्रे॒त् । पु॒रु । विश्वा॑ । जनि॑म । मानु॑षाणाम् ।
स॒मः । दि॒वा । द॒दृ॒शे॒ । रोच॑मानः । क्रत्वा॑ । कृ॒तः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥

सायणभाष्यम्

सूर्यः सर्वस्यप्रेरकोदेवः बृहत् अत्यधिकं पुरु पुरूणि बहूनि अर्चींषि तेजांसि उदश्रेत् ऊर्ध्वं श्रयति किंप्रति मानुषाणां मनुष्याणां विश्वा सर्वाणि जनिमा जनिमानि जनान् जनशब्दः संघवचनः तान् प्रत्युदश्रेत् सदेवोदिवा अहनि रोचमानः सन् समोददृशे एकरूपः प्र- तिनियतः सन् दृश्यते तस्मात्पुरुषं पुरुषं प्रत्यादित्योभवतीतिहिश्रुतिः । सदेवः क्रत्वा सर्वस्यकर्ता कृतः संपादितः प्रजापतिना कर्तुभिः स्तुतिकर्तृभिः सुकृतः स्तुत्या तीक्ष्णीकृतोभूत् भवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः