प्र॒त्न॒वज्ज॑नया॒ गिरः॑ शृणु॒धी ज॑रि॒तुर्हव॑म् ।
मदे॑मदे ववक्षिथा सु॒कृत्व॑ने ॥
प्र॒त्न॒ऽवत् । ज॒न॒य॒ । गिरः॑ । शृ॒णु॒धि । ज॒रि॒तुः । हव॑म् ।
मदे॑ऽमदे । व॒व॒क्षि॒थ॒ । सु॒ऽकृत्व॑ने ॥
हे इन्द्र प्रत्नवत् पुरा यथा स्तोतृभ्योपेक्षितफलप्रदानेन स्तुतीर्जनयसि एवमिदानीमपि गिरः स्तुतीर्जनयोत्पादय जरितुः स्तोतुः हव- माह्वानंच शुणुधि शृणुधि शृणु जानीहि । ताद्दशस्त्वं मदेमदे सोमेन तर्पणेतर्पणे सति सुकृत्वने शोभनकर्त्रे यजमानाय ववक्षिथापेक्षितं फलं वहसि ददासीत्यर्थः ॥ ७ ॥