तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे॑ कृ॒त्नुम् ।म॒हो वा॒जिनं॑ स॒निभ्य॑ः ॥
तम् । सु॒ऽस्तु॒त्या । आ । वि॒वा॒से॒ । ज्ये॒ष्ठ॒ऽराज॑म् । भरे॑ । कृ॒त्नुम् ।
म॒हः । वा॒जिन॑म् । स॒निऽभ्यः॑ ॥
तमिन्द्रं सुष्टुत्या शोभनया स्तुत्या आविवासे परिचरामि कीदृशं ज्येष्ठराजं ज्येष्ठेषु प्रशस्यातमेषु देवेषु मध्ये राजमानम् राजतेः सत्सूद्विषेतिक्विप् भरे संग्रामे महोमहतः वृत्रवधादेः कृत्नुं कर्तारं वाजिनमन्नवंतं बलवन्तं वा । किमर्थं सनिभ्योधनेभ्यः धनलाभायेत्यर्थः ॥ ३ ॥