मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २४, ऋक् २४

संहिता

वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् ।
अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥

पदपाठः

वेत्थ॑ । हि । निःऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवृज॑म् ।
अहः॑ऽअहः । शु॒न्ध्युः । प॒रि॒पदा॑म्ऽइव ॥

सायणभाष्यम्

इदानीमृषिरिन्द्रं संबोध्यआह हे वज्रहस्त वज्रयुक्तहस्तेन्द्र निरृतीनामुपद्रवकारिणां रक्षसां परिवृजं परिवर्जनं हिरवधारणे त्वमेववेत्थ जानीषे । त- त्रदृष्टान्तः-अहरहः शुंध्युः अस्मिन्नुदितेसति ब्राह्मणा आत्मीयं कर्म कृत्वा शुद्धाभवन्तीति शोभाहेतुत्वात् शुन्ध्युरादित्यः परिपदामिव परितः यज- मानानां इव यद्वा परिपदां समानाधिकरणः परितः पततां पक्षिणां वर्जनं स्वस्थानत्यागं अहरहः प्रतिदिवसं यथा वेत्ति उदिते सूर्ये पक्षिणःस्वस्था- नं परित्यज्य सर्वतोगच्छन्ति खलु । एवं त्वयीन्द्रे स्वबलेन प्रकाशमानेसति शत्रवः स्वपुरादि त्यत्क्का पलायन्त इत्यर्थः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९