आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म् ।
अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥
आ । तु । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । रथ॑म् । ति॒ष्ठ॒ । हि॒र॒ण्यय॑म् ।
अध॑ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र॑ऽपादम् । अ॒रु॒षम् । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ॥
हे सुशिप्र सुहनो हे दंपते गृहस्वामिन् अत्र गृहोरथः तस्यस्वामिन् तु त्वं तावद्रथमातिष्ठ हविः स्वीकरणानन्तरं पश्चादहमारोहामीतिभावः । कीदृशं हिरण्ययं हिरण्मयं अध तवारोहणानन्तरं अहमथारुत्द्य उभौ सचेवहि संगच्छेवहि संगतौ भवेव । किंतत् द्युक्षं दीप्तं रथं कीदृशं सहस्रपादं बहुपादं अरुषमारोचनं स्वस्तिगां कुशलगमनं अनेहसमपापम् ॥ १६ ॥